(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.87. अध्यायः 087
Mahabharata - Karna Parva - Chapter Topics
भीमेन राज्ञां समक्षं दुःशासनवक्षसो रक्तपानम्॥ 1 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-87-0x(5048)(59335)
सर राजपुत्रेण समार्च्छदुग्र--
दुःशासनेन निकृतो निकृत्या॥ 8-87-1(59336)
तत्राकरोद्दुष्करं राजपुत्रो
दुःशासनः कुरुवीरो महात्मा।
यद्भीमसेनं प्रतियोधयद्रणे
जम्भो यथा शक्रमुदारवीर्यम्॥ 8-87-2(59337)
धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये
षड्भिः शरैः सारथिमभ्यविध्यत्।
ततोऽविध्यत्त्रिंशता भीमसेनं
वरेषुभिर्वन्यमिव द्विपेन्द्रम्॥ 8-87-3(59338)
स कार्मुकं गृह्य तु भारसाधनं
भीमस्तदा राजपुत्रं ह्यविध्यत्।
पञ्चाशतैर्बाणगणैः स्तनानन्तरे
तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम्॥ 8-87-4(59339)
ततस्तु राजन्विरथं महात्मा
दुःशासनो भीमसेनं चकार।
निहत्य सङ्ख्ये चतुरोऽस्य बाहा--
ञ्छित्त्वा रथेषां पुनरेव चाक्षिपत्॥ 8-87-5(59340)
ततः क्षितिस्वो ह्यबरुह्य याना--
द्वृकोदरो मदया तस्य वाहान्।
यमक्षयं प्रेषयित्वा महात्मा
रथं समाकर्पत राजसूनोः॥ 8-87-6(59341)
तस्मादवप्लुत्य रथात्ससर्ज
दुःशासनस्तोमरमुग्रवेगम्।
स तेन विद्धो ह्युरसि ह्यप्रमेयो
गदां तस्मै विससर्जाप्रमेयाम्॥ 8-87-7(59342)
ततः क्रोधाद्भीमसेनः कृतानि
सर्वाणि दुःखान्यनुसंस्मरन्वै।
संस्मृत्य संस्मृत्य तथा प्रतिज्ञा--
मुग्रामसौ राजपुत्रौ व्यषीदत्॥ 8-87-8(59343)
सञ्चिन्तितं रोषमतीव वेगा-
त्त्रयोदशाब्दं पुरुषप्रवीरः।
प्रगृह्य वज्राशनितुल्यवेगां
गदां करेणाथ वृकोदरो रुषा॥ 8-87-9(59344)
निपातयित्वा पृथिवीतले भृशं
स ताजयामा वृकोदरो बली।
अतीव सन्ताडितभिन्नगात्रो
दुःशासनो वै निपपात भूमौ॥ 8-87-10(59345)
आक्रम्य कण्ठे युधि राजपुत्रं
संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम्।
तद्ब्रूहि किं त्वं परिमार्गमाणो
ह्यस्मान्पराभूय इहागतः पुनः॥ 8-87-11(59346)
दिदीपयंस्तद्भृशदीपितं मे
चिरार्जितं रोषमतिप्रदीप्तम्।
मधु प्रपास्ये तव कोष्टभाजना--
दित्यब्रवीद्भीमसेनस्तरस्वी॥ 8-87-12(59347)
दुःशासनं कण्ठदेशे प्रमृद्रं--
स्ततः क्रूरं भीमसेनश्चकार।
कतं व्यंसयित्वा सहसा ससार
बलादसौ धार्तराष्ट्रस्तरस्वी॥ 8-87-13(59348)
भीमोऽभिदुद्राव सुतं त्वदीयं
सपत्रतां दर्शयन्धार्तराष्ट्रे।
मृगं मुहुः सिंहशिशुर्यथा वने
तथाश्वभिद्रुत्य महाबलं बली॥ 8-87-14(59349)
निगृह्य चैनं परमेण कर्मणा
उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम्।
भूमौ तदा निष्पिपेषाथ वीर
असिं विकोशं विमलं चकार॥ 8-87-15(59350)
तं पातयित्वा तु वृकोदरोऽथ
जगर्ज हर्षेण विनादयन्दिशः।
नादेन तेनाखिलपार्श्ववर्तिनो
मूर्च्छाकुलाः पतितास्त्वाजमीढ॥ 8-87-16(59351)
दुःशासनं तत्र समीक्ष्य राज--
न्भीमो महाबाहुरचिन्त्यकर्मा।
स्मृत्वा च केशग्रहणं च देव्या
वस्त्रापहारं च रजस्वलायाः॥ 8-87-17(59352)
अनागसो भर्तृपराङ्मुखाया
दुःखानि दत्तान्यपि विप्रचिन्त्या।
जज्वाल कोपादथ भीमसेन
आज्यप्रसिक्तो हि यथा हुताशः॥ 8-87-18(59353)
तत्राह कर्णं च सुयोधनं च
कृपं द्रौणिं कृतवर्माणमेव।
निहन्मि दुःशासनमद्य पापं
संरक्ष्यतामद्य समस्तयोधाः॥ 8-87-19(59354)
इत्येवमुक्त्वा सहसाभ्यधाव--
न्निहन्तुकामोऽतिबलस्तरस्वी।
तथा तु विक्रम्य रमे वृकोदरो
महागजं केसरिको यथैव।
निगृह्य दुःशासनमेकवीरः
सुयोधनस्याधिरथेः समक्षम्॥ 8-87-20(59355)
असिं समुद्यम्य सितं सुधारं
कण्ठे पदाक्रम्य च वेपमानम्।
उवाच तद्गौरिति यद्ब्रुवाणो
हृष्टोऽवदः कर्णसुयोधनाभ्याम्॥ 8-87-21(59356)
ये राजसूयावभृथे पवित्रा
जाताः कछा याज्ञसेन्या दुरात्मन्।
ते पाणिना कतरेणावकृष्टा--
स्तद्ब्रूहि त्वां पृच्छति भीमसेनः॥ 8-87-22(59357)
श्रुत्वा तु तद्भीमवचः सुघोरं
दुःशासनो भीमसेनं निरीक्ष्य।
जज्वाल बीमं स तदा स्मयेन
संशृण्वतां कौरवसोमकानाम्।
उक्तस्तदाजौ स तथा सरोषं
जगाद भीमं परिवृत्तनेत्रः॥ 8-87-23(59358)
अयं करिकराकारः पीनस्तनविमर्दनः।
गोसहस्रप्रदाता च क्षत्रियान्तकरः करः॥ 8-87-24(59359)
अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः।
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्॥ 8-87-25(59360)
एवं त्वसौ राजसुतं निशम्य
ब्रुवन्तमाजौ विनिपीड्य वक्षः।
भीमो बलात्तं प्रतिगृह्य दोर्भ्या--
मुच्चैर्ननादाथ समस्तयोधान्॥ 8-87-26(59361)
उवाच यस्यास्ति बलं स रक्ष--
त्वसौ भवेदद्य निरस्तबाहुः।
दुःशानं जीवितं प्रोत्सृजन्त--
माक्षिप्य योधांस्तरसा महाबलः॥ 8-87-27(59362)
एवं क्रुद्धो भीमसेनः करेण
उत्पाटयामास भुजं महात्मा।
दुःशासनं तेन स वीरमध्ये
जघान वज्राशनिसन्निभेन॥ 8-87-28(59363)
कण्ठे समाक्रम्य च वेपमानं
कृत्वाऽनु रूपं परमं सुघोरम्।
कालान्तकाभ्यां सदृशं तदानीं
विदार्य वक्षश्च महारथस्य॥ 8-87-29(59364)
दुःशासनस्य निपुशासनस्य
उद्धृत्य वक्षः पतितस्य भूमौ।
ततोऽपिबच्छोणितमस्य कोष्ण--
मास्वाद्य चास्वाद्य च वीक्षमाणः॥ 8-87-30(59365)
क्रुद्धः प्रहृष्टो निजगाद वाक्यं
स्तन्यस्य मातुः पयसोऽमृतस्य।
माध्वीकजस्येव रसस्य तस्य
मधोश्च पानाद्यवकस्य पानात्॥ 8-87-31(59366)
पयोदधिभ्यां मथिताच्च मुख्या--
त्तथेक्षुसारस्य मनोहरस्य।
सर्वेभ्य एवाभ्यधिको रसोऽस्य
मतो ममाद्याहितलोहितस्य॥ 8-87-32(59367)
एवं ब्रुवाणं पुनरुत्थितं त--
मास्फोट्य वल्गन्तमतिप्रहृष्टम्।
ये भीमसेनं ददृशुस्तदानीं
प्रायेण तेऽपि व्यथिता निपेतुः॥ 8-87-33(59368)
ये चापि नासन्पतिता मनुष्या--
स्तेषां करेभ्यः पतितं तु शस्त्रम्।
भयाच्च सञ्चुक्रुशुरस्वरैस्तदा
निमीलिताक्षा मुमुहुश्च तत्र॥ 8-87-34(59369)
ये तत्र भीमं रुधिरं पिबन्तं
दुःशासनस्य ददृशुः प्रपन्नाः।
नायं मनुष्यस्त्विति भाषमाणाः
सर्वेऽपलायन्त भयाभिपन्नाः॥ ॥ 8-87-35(59370)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तशीतितमोऽध्यायः॥ 87 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-87-27 योधानाक्षिप्य उवाचेत्यन्वयः॥ 8-87-32 अहितस्य शत्रोःदुःशासनस्य लोहितस्य रक्तस्य॥ 8-87-87 सप्ताशीतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.